हिंदी

विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

विज्ञानविषयं प्राप्तुं प्राधानाचार्य प्रति आवेदनपत्रम्।

दीर्घउत्तर

उत्तर

सेवायाम्
प्रधानाचार्यमहोदय!
मीमांसाविद्यालयः, नवदेहली

विषयः – एकादशकक्षायां विज्ञानविषयग्रहणार्थ विशेषानुमतये निवेदनम्।

महोदय,
सविनयं निवेद्यते यदहमस्मिन् विद्यालये प्रथमकक्षातः पठामि। प्रतिवर्षमहम् उत्तमान् अङ्कान् प्राप्य कक्षायां प्रथमस्थानमेव अधिगच्छामि स्म। परमस्मिन् वर्षे परीक्षामध्ये एवाहम् अकस्मात् ज्वरग्रस्तः अभवम्। विज्ञानविषयस्य तु परीक्षाऽपि मया चिकित्सालयात् एव परीक्षाकेन्द्र प्राप्य प्रदत्ता। फलतः मया आशानुकूलः परीक्षापरिणामः न प्राप्तः। विद्यालयनियमानुसार विज्ञानविषय ग्रहणाय प्रतिशतं केवलम् एकस्य एव अङ्कस्य न्यूनता अस्ति।

महोदय! शैशवादेव मम हार्दिकी इच्छा जीवविज्ञाने शोधं कृत्वा वैज्ञानिकः भवितुमासीत्। परं यदि अहं विज्ञानविषये प्रवेशमेव प्राप्तुमसमर्थः भविष्यामि तदा कथमहं स्वकीयं स्वप्नं सार्थकं करिष्यामि। अतः मम करबद्धः अनुरोधः अस्ति। यन्मह्यं विज्ञानविषयं पठितुम् भवान् अनुमतिं प्रयच्छतु। एतदर्थम् अहं पुनः परीक्षणाय अपि सज्जः अस्मि।
आशासे यत् भवान् मम स्थितिमवगत्य मम विशेषानुरोधं स्वीकरिष्यति।

कृपाकाङ्क्षी
भवदाज्ञाकारी शिष्यः

shaalaa.com
औपचारिकम् पत्रम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: पत्रलेखनम् - अभ्यासः [पृष्ठ १३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 2 पत्रलेखनम्
अभ्यासः | Q 1 | पृष्ठ १३

संबंधित प्रश्न

भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत।


भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थ धन प्रार्थयितुं च पितर प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चशतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्र, प्रतीक्षायाम्

छात्रावासतः
दिनाङ्क:
15/09/2021
पूज्यपितृचणाः.
प्रणतीनां शतम्।

अत्र अहं कुशलः (1) ______ व्यापूतः अस्मि। आशासे (2) ______ अपि मात्रा सह आनन्देन निवसति। मम  (3) ______ परीक्षा सम्पन्ना। परीक्षानन्तर शिक्षकैः सह छात्राणां (4) ______ योजना अस्ति। यदि भवतः (5) ______ स्यात् तर्हि अहमपि तैः सह (6) ______ इच्छामि। सर्वैः एव गन्तुकामैः (7) ______ देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरूप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8) ______ भवन्तः। कृपया (9) ______ स्वमन्तव्यं प्रकटयन् पत्र लिखतु। भवतः अनुमत्याः (10) ______।

भवतः पुत्रः
सर्वेशः


पर्वतीयसुषमाया: वर्णनं कुर्वन् स्वमित्रं नमितं प्रति सुमेशस्य पत्रम्।


दण्डशुल्कक्षमापनार्थ प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत।


ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत।


अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत।

अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्

परीक्षाभवनतः
दिनाङ्कः 02/03/2021
प्रिय मित्र!
नमोनमः

अत्र कुशल तत्र (1) ______। भवता  (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षाया मम (3) ______ आशानुकूल: न अस्ति। अस्य (4) ______ अपि मया ज्ञातम्, मम स्वोपरि (5) ______ एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ______ स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) ______ सु सोढ़ः परं कोऽपि अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (8) ______ कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्


भवान् प्रथमसत्रपरीक्षावाम् उत्तमाङ्कान् प्राप्तवान् इति वर्णयन् मित्र प्रति मञ्जूषायाः सहायतया पत्र लिखतु।

समयानुसारिणीम्, सर्वम् अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः

मुलूदः
दिनाङ्कः 15/04/2021


प्रिय मित्र!
नमोनमः

अत्र कुशलं तत्र (1)  ______ अस्तु। भवता  (2) ______ यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) ______ आशानुकूलः अस्ति। अस्य (4) ______ एतत् अस्ति यत् मया नियमानाम् अनुपालन कृतमा खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) ______ मया परीक्षायां शोभनाः (6) ______ प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) ______ क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8)______ पालयेत्। शेष कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्


अतिवृष्टेः कारणात् विषमजीवन यापयन्तीं स्वभगिनीं प्रति पत्र लिखत।


जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रस्य मित्रं प्रति लिखितं पत्रं मञ्जूषायां पदत्तपदैः पूरयित्वा पुनः लिखत-

देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु

छात्रावासतः
दिनाङ्कः _________

प्रिय मित्र!
स्रपेम नमोनमः,

अत्र कुशलं तत्र  ________। भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रः  ________ जनसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः ________ अस्ति। वयं सर्वे एव  ________ यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एव  ________ इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य ________ कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न  ________ संरक्षणार्थं ________ अनिवार्या एव। यदि जनाः अत्र ध्यान न दास्यन्ति तदा अस्माकं ________ स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्त्यर्थं  ________ सन्ति तथा एव अस्मांक देशस्य अपि स्थितिः भविष्यति। अत: जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः


 स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।


सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-


प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशता पित्रा पुत्र प्रति पत्रम्।


जीवने सफलता लब्धं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-


स्वदेशस्य संस्कृति वर्णयन्त्याः सख्याः विदेशिनी सखीं प्रति पत्र लिखत-


पुत्रीं रक्ष पुत्री पाठय’ इति अभियानं कथं सार्थक भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×