English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत - आदेशं प्राप्य उभौ प्राचलताम्‌। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -

आदेशं प्राप्य उभौ प्राचलताम्‌। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया कन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच 'रे दुष्ट! तस्मिन्‌ दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन्‌ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे' इति प्रोच्य उच्चैः अहसत्‌। यथाकथञ्चित्‌ उभौ शवमानीय एकस्मिन्‌ चत्वरे स्थापितवन्तौ।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) अभियुक्तः कया क्रन्दति स्म?

(ख) अभियुक्तः कीदृशः आसीत्‌?

(ग) कीदृशं देहं वहन्तौ तौ प्रस्थितौ?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

(क) मुदितः आरक्षी अभियुक्तं किम्‌ उवाच?

(ख) उभौ शवं कुत्र स्थापितवन्तौ?

(ग) कीदृशस्य शवस्य वहनं दुष्करम्‌ आसीत्‌?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

(क) 'दुःखी' इत्यस्य किं विपर्ययपदम्‌ अत्र प्रयुक्तम्‌?

(ख) 'मृतशरीरस्य, इत्यस्य पर्यायपदं गद्यांशात्‌ चित्वा लिखत।

(ग) 'प्राचलताम्‌' क्रियापदस्य कर्तृपदं लिखत।

One Line Answer
One Word/Term Answer

Solution

अ.

(क) भारवेदनया 

(ख) कृशकायः

(ग) काष्टपटले निहितम्‌/पटाच्छादितम्‌

आ.

(क) मुदित आरक्षी तमुवाच 'रे दुष्ट! तस्मिन्‌ दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन्‌ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे"।

(ख) उभौ शवमानीय एकस्मिन्‌ चत्वरे स्थापितवन्तौ।

(ग) भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌।

इ.

(क) मुदितः

(ख) शवस्य 

(ग) उभौ 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×