Advertisements
Advertisements
प्रश्न
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
नकुलः प्रतिदिन प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्व दृष्ट्वा आहती भवतः। पुत्रं बेधवितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि शृणोति। एकदा पुत्र प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्या सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातु: एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मा मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्द मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः। कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातः वात्सल्यमयेन बोधनने नकुलः दुर्जनसंसर्ग त्यक्तुं दृढनिश्चयं करोति। |
(1) एकपदेन उत्तरत –
(क) 'धिङ् मम जीवितम्' इति का वदति?
(ख) कौ आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम अकथयत्?
(घ) नकुल: मित्राणि प्रति किं वक्तुमिच्छति स्म?
(2) पूर्णवाक्येन उत्तरत –
(क) नकुलः मित्रैः सह धूम्रपानं, मद्यपानं च करोति स्म।
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति?
(3) भाषिककार्यम्-
(क) 'अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति'- अत्र किमव्ययपदम् ?
(ख) ''साश्रुनयन: पुत्र: वदति' - अत्र किं विशेषणपदम्?
(ग) 'अनेकश:' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(घ) गद्यांशे 'शत्रून' इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर
(1)
(क) नकुलस्य माता
(ख) पितरौ
(ग) दुर्जनसंसर्ग
(घ) न
(2)
(क) नकुलः मित्रैः सह धूम्रपानं, मद्यपानं च करोति स्म।
(ख) स्नेहेन लालयन्ती माता पुत्रं बोधयति-त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’।
(3)
(क) अद्यत्वे
(ख) साश्रुनयनः
(ग) बहुधा
(घ) मित्राणि
(4)
दुर्जन संसर्गस्य दुष्प्रभाव:
APPEARS IN
संबंधित प्रश्न
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
गोदावरीतीरे विशाल: शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्य। प्रात:काले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह-“कुतोऽत्रनिर्जने वने तण्डुलकणानां सम्भवः। भद्रमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारित कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोत: सदर्पमाह-आः! किमेवमुच्यते। वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते। एतदाकये सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन्। यतो हि-बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते। |
(1) एकपदेन उत्तरत –
(क) आपत्काले केषां वचनं ग्राह्यम्?
(ख) विशाल: शाल्मलीतरु: कुत्रासीत्?
(ग) व्याध: कान् विकीर्य प्रच्छन्नो भूत्वा स्थित:?
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम?
(2) पूर्णवाक्येन उत्तरत –
(क) कपोतराजः कान् प्रत्याह?
(ख) के कदा क्लिश्यन्ते?
(3) भाषिककार्यम् –
(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?
(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।
(ग)‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपद चित्वा लिखत।
(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिक: महत्त्वपूर्णः मूल्यवान् च वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लघु शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थक समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्य कुर्वन्ति। न धर्मम् आचरन्ति न धनम् उपार्जन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भार वोदू नेच्छिति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः। |
(1) एकपदेन उत्तरत –
(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
(ख) क: विनष्ट: परावर्तयितुं न शक्यते?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
(2) पूर्णवाक्येन उत्तरत –
(क) केषां जन्म निरर्थकं भवति?
(ख) अन्येषां वस्तुनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
(3) भाषिककार्यम्-
(क) 'यावान् काल: निरर्थक: गत: स: गत: एव' इति वाक्ये अव्ययपदं किम इति चित्वा लिखत।
(ख) 'सदुपयोग:' इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ग) 'अनेके जना:' इत्यत्र विशेष्यपदं किम्?
(घ) 'पुत्रान' इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्र धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समयः गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नी चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! कि जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्य करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रो: सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्। |
(1) एकपदेन उत्तरत –
(क) धनेश: कयो: सेवायां समयं यापयति स्म?
(ख) क: विद्वान पितृभक्तश्चासीत??
(ग) क: धनेशं जीवनस्य अभिप्रायम अपृच्छत्??
(घ) आचार्यस्य नाम किम आसीत्?
(2) पूर्णवाक्येन उत्तरत –
(क) धनेशस्य समय: कथं गच्छति स्म?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेश: साश्चर्यम किम उदतरत?
(3) भाषिककार्यम्-
(क) 'तस्य पुत्र: धनेश:' इत्यत्र 'तस्य' इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ''श्रुत्वा' इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम् ?
(ग) 'पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम् ' अत्र क्रियापदं चित्वा लिखत |
(घ) ''मातु:' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
अमर्त्यसेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापक: गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्-‘अमर्त्यसेनः इत्येतत् पद संस्कृत मूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यास कृतवान् सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थ स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्य समाप्य श्रीअमर्त्यसेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विद्वत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मान दत्तवान् जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च। |
(1) एकपदेन उत्तरत –
(क)अमर्त्यसेनस्य जन्म कुत्र अभवत?
(ख) अमत्यसेनाय 'भारतरत्नम्' इति सम्मानं क: दत्तवान्?
(ग) अमर्त्यसेन: उच्चशिक्षार्थं कुत्र अगच्छत?
(घ) अमर्त्यसेन: कुत्र संकृताभ्यासं कृतवान ?
(2) पूर्णवाक्येन उत्तरत –
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथ: ठाकुर: किम उक्तवान् ?
(ख) अध्यापनसमये स: किं कृतवान?
(3) भाषिककार्यम्-
(क) 'अस्य जन्म शान्तिनिकेतने अभवत्।' इत्यस्मिन् वाक्ये 'अस्य' इति सर्वनामपदं कस्मै प्रयुक्तम?
(ख) अमर्त्यसेन: संस्कृताभ्यासं कृतवान्।' गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।
(ग) ''अगच्छत '' इति क्रियापदस्य किं विलोमपदम अत्र प्रयुक्तम्?
(घ) 'महतीं गवेषणाम्' अत्र विशेषणपदं किम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
अम्ब अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानुजः क्रीडनाय बहिर्गच्छति स्म तदा अहं स्वपितृभ्यां गृहकार्यार्थ पठनार्थ चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्य: नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः असीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्। |
(1) एकपदेन उत्तरत –
(क) रमा काभ्यां गहकायर्थं पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वा: सुविधा: प्रदास्यति?
(ग) रमाया: पुत्री केन सह क्रीडितुं बहिर्गच्छति?
(घ) रमा कस्य निर्वाहे श्रेष्ठा अभवत्?
(2) पूर्णवाक्येन उत्तरत –
(क) पुत्र्या : किं वच: निशम्य रमा स्वशैशवं प्राप्ता?
(ख) रमाया: मनसि यदा कदा कीदृशी कुण्ठा जायते?
(3) भाषिककार्यम्-
(क) 'एतादृश्या: कुण्ठाया: अवकाश: एव न स्यात' -अत्र किं विशेष्यपदम्?
(ख) ''मत्सदृश्य: नार्य:' वायुयानं चालयन्ति "इति वाक्ये किं कर्तृपदम्??
(ग) 'द्वारं पिधेहि कृपया' अत्र किं क्रियापदम?
(घ) 'अस्तु तावत् अनयो: पदयो: किम् अव्ययपदम्?
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनि श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तित वृक्षं दृष्ट्वा रुदन्निव वदति स्म, घः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दु:खितोऽहम्। सः तु आपणं गतवान पर न कोऽप्यस्त्यत्र योऽस्य व्रणानामपचार करोतु। किमर्थ विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रवणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दुर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्त भविष्यति। इदं सर्व श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्। |
(1) एकपदेन उत्तरत –
(क) 'काष्ठहार: किं श्रुत्वा तिष्ठति?
(ख) वृक्षस्य वार्तां श्रुत्वा काष्ठहार: कीदृश: अभवत?
(ग) काष्ठहार: काष्ठानि नीत्वा कुत्र गतवान?
(घ) वृक्षा: कस्य शुद्धीकरणाय भवन्ति?
(2) पूर्णवाक्येन उत्तरत –
(क) वृक्ष: किमर्थं दु:खित: आसीत?
(ख) वृक्षाणां कर्तनेन केषां महत्वं विलुप्तं भविष्यति?
(3) भाषिककार्यम्-
(क) 'वृक्ष: समीपस्थं वृक्षं दृष्ट्वा रूदन्निव वदति' - अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) 'आश्रिता:' इति पदस्य कृते किं विलोमपदम अनुचछेदे प्रयुक्तम् ?
(ग) 'विलोक्य' इत्यर्थे किं पदम अनुच्छेदे प्रयुक्तम् ?
(घ) 'ह्य: एक: काष्ठहार: मम मित्रस्य शारीरमच्छिनत्'' - अत्र किम अव्ययपदम ।
(4) उपर्युक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
महान् स्वतन्त्रतासेनानी स्वतन्त्रभारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः 1875 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकाया जन्म अलभत्। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिका निर्वहन पटेलमहोदयः अद्यापि सर्वेषां भारतवासिना श्रद्धाभाजनः। पटेलमहोदयं प्रति कृतज्ञता प्रकटयितुं गुजरातप्रान्तस्य तत्कालीनः मुख्यमंत्री नरेन्द्रमोदीमहोदयः 2013 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकायां तस्य मूर्तेः शिलान्यासं कृतवान्। अस्याः विशालकायायाः मूर्तेः निर्माणे पञ्च वर्षाणां कालः उपयुक्तः। तस्यैव जन्मदिवसे अक्तूबरमासस्य एकत्रिंशत् दिनाङ्क एव भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन मूर्तिरियं राष्ट्राय समर्पिता। इयं प्रतिमा एकतायाः मूर्तिः (स्टैच्यू ऑफ़ युनिटी) इति नाम्ना ख्याता अस्ति। इदं स्मारकं सरदारसरोवरबन्धतः प्रायशः त्रिकिलोमीटरमितं दूरे साधूबेरनामके उपद्वीपे स्थितमस्ति। अस्याः प्रतिमायाः उच्चता द्वयशीत्यधिकशमीटरमितम् (182 मी./597 फीट) अस्ति। इयं विश्वस्य उच्चतमा मूर्तिः अस्ति। मूर्तिः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते। |
(i) एकपदेन उत्तरत-
(क) कभारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च कः आसीत्?
(ख) पटेलमहोद्य: कस्मिन केन्नियां भूमिकां निवांहितवान?
(ग) नरेन्रमोदीमहोदयेन मर्ति: कर्मे समर्पिता?
(घ) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
(ii) पूर्णंवाक्येन उत्तरत
(क) क: सर्वेषां भारतीयानां श्रदाभाजन:?
(ख) मूर्ते: उच्चता किं सूच्चयति?
(iii) यथानिर्देश्गं प्रश्नान् उत्तरत
(क) 'केन्नीयां भूमिकाम्' इत्यनयो: पदयो: कि विशेष्यपदम?
(ख) 'तस्यैव जन्मदिवसे ______ सर्पिता'? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपद कर्मे प्रयुकतम?
(ग) 'समीषे' इत्यस्य बिलोमपदं गद्यांशात् चित्चा लिखता
(घ) 'महान् स्बतन्रतासेनानी जन्म अलभत' इत्यस्मिन् बाक्ये किं क्रियापदम?
(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति। सफलता परिश्रमिणः पुरुषस्य चरणौ चम्बति। विद्यार्थी परिश्रमेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति। शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः। ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्ट व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धं परिश्रमम् अवश्यं करणीयम्। अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यास न करोति तदा असफलः भवति, परं सामान्यमेधासम्पन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति-“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति। श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति। अत एव छात्राः सर्वदा परिश्रमस्य अवलम्बनं कुर्वन्तु, भागयस्यशरणं मा गच्छन्तु। |
(i) एकपदेन उत्तरत-
(क) साफल्यं लिधुं किं करणीयम?
(ख) सर्वाणि कार्याणि केन सिध्यन्ति'|
(ग) क: असफल: भवति?
(घ) अध्ययनशील: छात: किं प्राप्नोति?
(ii) पूर्णंवाक्येन उत्तरत
(क) क: सर्वेषां भारतीयानां श्रदाभाजन:?
(ख) मूर्ते: उच्चता किं सूच्चयति?
(iii) यथानिर्देश्गं प्रश्नान् उत्तरत -
(क) 'केन्नीयां भूमिकाम्' इत्यनयो: पदयो: कि बिशेष्यपदम?
(ख) 'तस्यैव जन्मदिवसे ______ सर्पिता'? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपद कर्मे प्रयुकतम?
(ग) 'समीषे' इत्यस्य बिलोमपदं गद्यांशात् चित्चा लिखता
(घ) 'महान् स्बतन्रतासेनानी जन्म अलभत' इत्यस्मिन् बाक्ये किं क्रियापदम?
(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्राप्यन्ति। तेषु प्रमुखाः दया-सत्य-अहिंसा-अस्तेय-अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यपि छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्याना शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानवः स्वकीयं पुरुषार्थं करोति जीवनलच्यं च प्राप्नोति। भारतीयसंस्कृती आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते। |
(i) एकपदेन उत्तरत-
(क) मानब: स्वकीयं पुरुषाथे कृत्चा किं प्राप्नोति ?
(ख) कस्य उत्थानाय द्यादिगुणानां महती आवश्यकता ?
(ग) सर्वाक्नीणबिकासाय केन समं नैतिकमूल्यान्यपि गहीतव्यानि?
(घ) केषु बाल्यादेव एते संस्कारा: स्थापनीया:?
(ii) पूर्णंवाक्येन उत्तरत
(क) मनुष्य: बास्तव: मनुष्य: कै: गुणै: भवति?
(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
(iii) यथानिर्देश्गं प्रश्नान् उत्तरत
(क) 'सर्वाज्भीण: विकासः' अत्र बिशेषणपदं किम?
(ख) 'भारत विश्वगुस्पदे प्राप्नोत्' अत्र प्राप्नोत् इति क्रियापदस्य कर्तपदद किम?
(ग) गद्यांशे 'सज्जितः' इति पदस्य कृते पर्यांयपद्द कि प्रयुक्तम्?
(घ) मानबजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति' अत्र 'एतेषां' सर्वनामपदं कस्मै प्रयक्तम्?
(iv) अनुच्छेदस्यास्य कृते समुचित शीर्षके लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थ श्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवन धन्यम् अस्ति। धिक् मम अभावपूर्ण जीवनम्। मम सहपाठिना जीवन पर्वतस्य इव उच्चम् मम च जीवन धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थिती आस्ताम्। वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्ण जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य। सत्यमेवास्ति-दूरतः पर्वताः रम्याः। इति |
(i) एकपदेन उत्तरत-
(क) अकिञ्चनस्य कक्षाया: अन्ये छात्रा: कीदृश-परिवारेभ्य: आसन्?
(ख) अकिञ्चनस्य मनसि किम् प्राविशत?
(ii) पूर्णवाक्येन उत्तरत -
(क) अकिञ्चनस्य पिता क: आसीत?
(ख) अकिञ्चन: हीनभावनया किम् अचिन्तयत्?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) ''सम्पन्नान' इति पदस्य विशेष्यपदं किम अस्ति ?
(ख) 'आस्ताम्' इति पदस्य कर्तृपदं किम अस्ति?
(ग) 'निकटत:' इति पदस्य कि विलोमपद्द गद्याँशे प्रयुक्तम्न?
(घ) 'वैभब: तम् अवदत्' इति वाक्यांशे 'तम्' इति सर्वनामपदं कस्मै प्रयुक्तम्?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते। जनप्सङ्ख्यावृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति। एतस्मात् कारणात् वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेन पर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते। जीवाश्मेन्धनस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते। यतः सौरविकिरणं भूमेः वातावरणे निबद्ध इव तिष्ठति, तापमानं च निरन्तरं वर्धमानम् एवास्ति। एतादृश्याः स्थितेः निराकरणाय अनियन्त्रितम् औद्योगीकरण निवारणीयम्। एतदेव वस्तुत सम्पूर्ण विश्वस्य कृते समस्याम् उत्पादयति। अतः सर्वैः मिलित्वैव स्थितेः संशोधनाय प्रयासः करणीयः। एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयं, सामान्यविद्युदपेक्षया पवनोर्जसं, सौरोजसं प्रति च ध्यान दातव्यम्। वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्। |
(i) एकपदेन उत्तरत-
(क) कस्य ज्वालनेन बिषाकतबायूनाम उत्सर्जने वृद्धिर्जायते?
(ख) कीदृशम औद्योगीकरणं निवारणीयम्?
(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते?
(घ) वृक्षारोपणं कत्वा किं प्रत्यपि ध्यानं दातव्यम?
(ii) पूर्णवाक्येन उत्तरत -
(क) वैश्विकी उष्णता कथं वर्धते?
(ख) वैश्विकोष्णताया: स्थिते: संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातब्यम्?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) 'दूरीकरणाय' अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) 'वृक्षकर्तनम्' इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
(ग) 'उष्णताया: प्रभाव: दिनानुदिनं वर्धते' अस्मिन् वाक्ये 'वर्धते' इति क्रियापदस्य कर्तेपदं किम्म?
(घ) 'अनियन्रितम औद्योगीकरणम्' अत्र विशेषणपदं किम?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
मानवः विकासशीलः। वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव सततं प्रवर्धमाना अस्ति। अस्मात् कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते। एतत्कृते सततविकासे रतः मानवः नवीनाविष्कारपरम्परायां लघुस्थाने बहुभूमिकाभवनानां निर्माणं कृतवान्। एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाधिकपरिवारेभ्यः निवासव्यस्था कतुं शक्यते। अत्र उन्नयनयन्त्रेण (लिफ़्ट इति अनेन) उपरिगमनम् अधः आगमनं च अतीव सकर भवति। अत एव जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति। अद्यत्वे नगरेषु महानगररेषु च बहुभूमिकभवनानां प्रचलनमेव वर्तते। एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदन, ‘जिम’ इति व्यायामस्थानाम्, उद्यानम् इत्यादीनि उपयोगीनि सुविधाप्रदायकसाधनानि अपि भवन्ति। अतिशोभनमेतत् सर्व पर विकास प्रति अन्धधावनशीलः मानवः प्रकृतेः उपेक्षा करोति इति अनुचितं प्रतीयते। अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम्। |
(i) एकपदेन उत्तरत-
(क) जनसहंख्या कथम् वर्धते?
(ख) बहुभूमिकभ्भवनेषु उपरिगमनम् अध: आगमन केन सुकरं भवति?
(ग) विकासं प्रति अन्धधावनशील: मानव: कस्या: उपेक्षां करोति?
(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?
(ii) पूर्णवाक्येन उत्तरत -
(क) प्रच्रुनिवासस्थानस्य कृते मानब: कि कृतवान?
(ख) बहुभूमिकभवनानां परिसरे कानि सुबिधासाधनानि भवन्ति?
(iii) यथानिर्देशं प्रश्नान् उत्तरत -
(क) 'मानब: बहुभमिकभवनानां निर्मांणं कृतवान्' - अत्र किं क्रियापदम्?
(ख) 'एतादृशानि भवनानि - अनयो: पदयो: किं विशेष्यपदम्?
(ग) 'अच्वत्वे बहुभमिकभवनानां प्रचलनं वर्तते - अत्न किम् अब्ययपदम्?
(घ) उचितम्' - इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षक्क लिखत।
अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
पुरा अस्माकं देशे बहवः प्रसिद्धाः राजानः अभवन्। तेषु दुष्यन्तः नाम एकः नृपः आसीत्। तस्य भार्या शकुन्तला आश्रमे पुत्रम् अजनयत्। तस्य नाम भरतः आसीत्। भरतः शैशवास्थायाम् अपि आश्रमे सिंहशावकैः सह क्रीडति स्म। एकदा सः एकस्य सिंहशावकस्य मुखम् उदघाटयत् अवदत् च- ‘जृम्भस्व सिंह! दन्तान् ते गणयिष्यामि।’ सिंहशावकः अपि जानाति स्म यत् भरतः अपि मया सहशः शिशुः अस्ति, मया सह च क्रीडति अतः सः भरताय नाक्रुध्यत् न च आक्राम्यत्। तत्र तापसीभ्यां निषिद्धः अपि भरतः कथयति स्म - नाहं सिंहात् विभेमि। इत्थम् आसीत् सः निर्भयः वीरः भरतः। भरतस्य अभिधानेन एवं अस्माकं देशस्य आर्यावर्तस्य नाम ‘भारतम्’ अभवत्। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) (2)
- निर्भयः वीरः च कः आसीत्?
- भरतः कैः सह क्रीडति स्म?
- भरतस्य मातुः नाम किम् आसीत्?
आ. पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्) (4)
- भरतः सिंहशावकं किम् अवदत्?
- सिंहशावकः भरताय किमर्थं नाकरुध्यत् न च आक्राम्यत्?
- भरतः तापस्यौ किं कथयति स्म?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। (1)
ई. यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) (3)
(i) ‘इत्थम् आसीत् सः निर्भयः वीरः भरतः’ अत्र किं क्रियापदम्?
(क) इत्थम्
(ख) आसीत्
(ग) निर्भयः
(घ) वीरः
(ii) ‘सहशः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) नृपः
(ख) वीरः
(ग) निर्भयः
(घ) शिशुः
(iii) ‘नृपाः’ इति पदस्य किं पर्यायपद गद्यांशे प्रयुक्तम्?
(क) सिंहशावकः
(ख) दन्तान्
(ग) राजानः
(घ) प्रसिद्धाः
(iv) ‘गणयिष्यामि’ इति क्रियापदस्य कर्तृपदं किं भवेत्?
(क) अहम्
(ख) ते
(ग) सः
(घ) दन्तान्
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत:
'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते। परम् अद्यत्वे छात्राणां मध्ये एक: चर्चित: प्रश्न: वर्तते यत् "संसकृतपठनेन के लाभा:?" अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः कै? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव। अस्या: जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते। वयम् पश्याम: यत् अद्यत्वे संस्कृतपटनेन नैके लाभा: सन्ति। संस्कृतभाषा विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति। ऐतिहासिकदृष्ट्या संस्कृते लिखिता: ग्रन्था: वेदा: महत्त्वपूर्ण स्थानं भजन्ते। आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र महत्त्वपूर्णं स्थानं दृश्यते। यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति। यतो हि संस्कृतस्य व्याकरणं पूर्णतया वैज्ञानिकम् अस्ति। वर्तमान समये संस्कृतस्य अध्येतारः शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या- 'आई.ए.एस.' प्रभृति। सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति। अस्मांक संस्कृति: संस्कृताधारिता अपि। अत एव संस्कृतभाषाया: अध्ययनं जीवनमूल्यपरकम् जीवनवृत्तिसाधनपरम् च अस्ति, नात्र कोऽपि सन्देह:। |
(अ) एकपदेन उत्तरतः (केवलं प्रश्नद्वयम्) 2
- सर्वभाषाणां जननी का?
- अस्माकं संकृतिः का आधारित वर्तते?
- कस्य व्याकरणं वैज्ञानिकम्?
(आ) पूर्णवाक्येन उत्तरत: (केवलं प्रश्नद्वयम्) 4
- ऐतिहासिकदृष्ट्या के महत्वपूर्णं स्थानं भजन्ते?
- वर्तमानसमये शिक्षणकौशलादिषु सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति?
- संस्कृतभाषाया: अध्ययनं कीदृशम् अस्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
(ई) यथानिर्देशम् उत्तरतः (केवलं प्रश्नत्रयम्) 3
(i) 'पश्याम:' इति क्रिया पदस्य कर्तृपंद किम्?
(A) नैके
(B) वयम्
(C) लाभाः
(D) संस्कृतपठनेन
(ii) 'समुचितम्' इति विशेषणपदस्य विशेष्यपदं किम्?
(A) समाधानम्
(B) संस्कृतशिक्षक:
(C) स्वानुभवैः
(D) जिज्ञासाया:
(iii) 'हानयः' इति पदस्य किं विपर्ययपदं गद्यांशे प्रयुक्तम्?
(A) सन्ति
(B) लिखिताः
(C) लाभाः
(D) नैके
(iv) 'अध्येतार:' इति कर्तृपदस्यं क्रियापदं कि प्रयुक्तम्?
(A) अस्ति
(B) सन्ति
(C) भजन्ते
(D) कुर्वन्ति