Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति।) द्रौपदी - (दीर्घं निःश्वस्य) हा हन्त। किम् इदं घोरम् आपतितम्। पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः। युधिष्ठिरः - शुभे! धैर्यं धारय। नूनं तव पुत्राः वीरगतिम् एव प्राप्ताः। वीरजननी त्वं शोचितुं न अर्हसि। द्रौपदी - कथं मन्दभाग्या अहं धैर्यं धारयामि। यावत् असौ क्रूरकर्मा न दण्ड्यते, तावत् अहम् इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि। युधिष्ठिरः - प्रिये! मा एवं ब्रूयाः। स पापकर्मा कुत्र गतः इति न जानीमः। अतिदूरं किञ्चिद् दुर्गमवनं प्रविष्टः भवेत्। द्रौपदी - (भीमं प्रति) आर्यपुत्र! क्षत्रधर्मम् अनुस्मरन् मां शोकसागरात् रक्ष। अस्मिन् संसारे कश्चित् अपि त्वया सदृशः पराक्रमी नास्ति। पुरा वारणावते त्वमेव पाण्डवान् रक्षितवान्। विराट-नगरे अपि त्वं मां प्राणसङ्कटात् उद्धृतवान्। भीमः - (युधिष्ठिरं प्रति) भ्रातः! द्रौणिम् अनुगन्तुं मह्यम् अनुमतिं ददातु भवान्। युधिष्ठिरः - गच्छ वत्स! विजयी भव, नकुलः तव सारथिः भवतु। (भीमसेनः निर्गच्छति, श्रीकृष्णः अर्जुनेन सह प्रविशति।) |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- का आत्मानं मन्दभाग्या इति कथयति?
- पुरा कुत्र भीमः पाण्डवान् रक्षितवान्?
- युधिष्ठिरः भीमः द्रौपदी कुत्र प्रविशन्ति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- द्रौपदी दीर्घं निःश्वस्य किं कथयति?
- भीमः कदा पाण्डवान् रक्षितवान्?
- भीमः किमर्थम् अनुमतिम् इच्छति?
इ. निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'निर्गच्छति' इत्यस्य किं विपर्यय-पदम् अत्र प्रयुक्तम्?
- 'श्रीकृष्णः अर्जुनेन सह प्रविशति।' अत्र कर्तृपदं किम् प्रयुक्तम्?
- 'घोरम् आपतितम्' अनयोः पदयोः विशेषणपदं किम्?
उत्तर
अ.
- द्रौपदी
- वारणावते
- रणभूमौ
आ.
- द्रौपदी दीर्घं निःश्वस्य कथयति- हा हन्त। किम् इदं घोरम् आपतितम्, पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः।
- भीमः वारणावते पाण्डवान् रक्षितवान्।
- भीमः द्रौणिम् अनुगन्तुम् अनुमतिम् इच्छति।
इ.
- प्रविशति
- श्रीकृष्णः
- घोरम्