English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। आरक्षी सुपष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

आरक्षी सुपष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्‌। यथाकथञ्चिद्‌ उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम्‌ अघटत्‌ स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌ - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद्‌ वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद्‌ वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।'

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)       1

(क) सुपष्टदेह: क: आसीत्‌?

(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम्‌ आसीत्‌?

(ग) कृशकायः क: आसीत्‌?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम्‌ प्रोच्य उच्चै: अहसत्‌?

(ख) अभियुक्तः कया क्रन्दति स्म?

(ग) उभौ शवम्‌ आनीय कुत्र स्थापितवन्तौ?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

One Line Answer
One Word/Term Answer

Solution

(i) 

(क) आरक्षी

(ख) शवस्य

(ग) अभियुक्त:

(ii) 

(क) आरक्षी अभियुक्तं प्रति दण्डविषये त्वं वर्षजयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्।

(ख) अभियुक्ति: भारवेदनया क्रन्दति स्म।

(ग) उभौ शवम्‌ आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।

(iii) 

(क) त्वम्

(ख) मञ्जूषायाः

(ग) अभिवाद्य

shaalaa.com
विचित्र: साक्षी
  Is there an error in this question or solution?
2023-2024 (February) Official

RELATED QUESTIONS

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?


 प्रसृते निशान्धकारे स किम् अचिन्तयत्?


वस्तुतः चौरः कः आसीत्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत -

चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।


यथानिर्देशमुत्तरत-

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

‘दुष्कराण्यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

निशान्धकारे – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

प्रबुद्धः + अतिथिः – ______


अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्, नियुक्तः, नीतवान्, निर्णतुम्, आदिष्टवान्, समागत्य, मुदितः।

ल्यप्‌ क्त क्तवतु तुमुन्
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______
______ ______ ______ ______

अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तौ ______ प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)


कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

________ चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्ड लप्यसे। (इदम् शब्दे सप्तमी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×