English

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत। (सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ) विदूषकः इत इत आर्यौ! - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ)
विदूषकः इत इत आर्यौ!
कुशलवौ  (रामम्‌ उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः 

युष्मदर्शनात्‌ कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्रस्य भाजनम्‌ एव, न पुनरतिथिजनसमुचितस्य कण्टाश्लेषस्य। (परिष्वज्य) अहो हदयग्राही स्पर्शः।

(आसनार्धमुपवेशयति)

उभौ  राजासनं खल्वेतत्‌, न युक्तमध्यासितुम्‌।
रामः सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्‌। (अङ्कमुपवेशयति)
उभौ  (अनिच्छां नाटयतः) राजन्‌! अलमतिदाक्षिण्येन।
रामः 

अलमतिशालीनतया।

भवति शिशुजनो वयोऽनुरोधाद्‌ गुणमहतामपि लालनीय एव। व्रजति हिमकरोऽपि बालभावात्‌ पशुपति-मस्तक-केतकच्छदत्वम्‌॥

रामः  एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः  भगवन्‌ सहस्रदीधितिः।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) कुशलवयोः मार्गं कः निर्दिशति?

(ख) कौ अनिच्छां नाटयतः?

(ग) कुशलवयोः वंशस्य कर्ता कः?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

(क) रामः कथं वंशपरिचयं पृच्छति?

(ख) कुशलवौ रामम्‌ उपसृत्य प्रणम्य च किं पृच्छतः?

(ग) हिमकरः कस्मात्‌ भावात्‌ पशुपतेः मस्तके व्रजति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)         2

(क) 'निर्गच्छतः' इति पदस्य विपर्ययपदं नाट्यांशात्‌ चित्वा लिखत।

(ख) 'ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ।' अत्र कर्तृपदं किम्‌?

(ग) 'समीपं गत्वा' इत्यस्य पर्यायपदं किं प्रयुक्तम्‌?

Writing Skills

Solution

अ. 

(क) विदूषकः

(ख) उभौ/कुशलवौ

(ग) सहस्रदीधितिः

आ. 

(क) रामः कौतूहलेन वंशपरिचयं पृच्छति।

(ख) कुशलवौ रामम्‌ उपसृत्य प्रणम्य च पृच्छतः - अपि कुशलं महाराजस्य इति।

(ग) हिमकरः बालभावात्‌ पशुपतेः मस्तके व्रजति।

इ. 

(क) प्रविशतः

(ख) कुशलवौ

(ग) उपसृत्य 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×