Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ) | |
विदूषकः | इत इत आर्यौ! |
कुशलवौ | (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य? |
रामः |
युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्रस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्टाश्लेषस्य। (परिष्वज्य) अहो हदयग्राही स्पर्शः। (आसनार्धमुपवेशयति) |
उभौ | राजासनं खल्वेतत्, न युक्तमध्यासितुम्। |
रामः | सव्यवधानं न चारित्रलोपाय। तस्मादङ्क-व्यवहितमध्यास्यतां सिंहासनम्। (अङ्कमुपवेशयति) |
उभौ | (अनिच्छां नाटयतः) राजन्! अलमतिदाक्षिण्येन। |
रामः |
अलमतिशालीनतया। भवति शिशुजनो वयोऽनुरोधाद् गुणमहतामपि लालनीय एव। व्रजति हिमकरोऽपि बालभावात् पशुपति-मस्तक-केतकच्छदत्वम्॥ |
रामः | एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता? |
लवः | भगवन् सहस्रदीधितिः। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) कुशलवयोः मार्गं कः निर्दिशति?
(ख) कौ अनिच्छां नाटयतः?
(ग) कुशलवयोः वंशस्य कर्ता कः?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) रामः कथं वंशपरिचयं पृच्छति?
(ख) कुशलवौ रामम् उपसृत्य प्रणम्य च किं पृच्छतः?
(ग) हिमकरः कस्मात् भावात् पशुपतेः मस्तके व्रजति?
इ. निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) 'निर्गच्छतः' इति पदस्य विपर्ययपदं नाट्यांशात् चित्वा लिखत।
(ख) 'ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गौ तापसौ कुशलवौ।' अत्र कर्तृपदं किम्?
(ग) 'समीपं गत्वा' इत्यस्य पर्यायपदं किं प्रयुक्तम्?
उत्तर
अ.
(क) विदूषकः
(ख) उभौ/कुशलवौ
(ग) सहस्रदीधितिः
आ.
(क) रामः कौतूहलेन वंशपरिचयं पृच्छति।
(ख) कुशलवौ रामम् उपसृत्य प्रणम्य च पृच्छतः - अपि कुशलं महाराजस्य इति।
(ग) हिमकरः बालभावात् पशुपतेः मस्तके व्रजति।
इ.
(क) प्रविशतः
(ख) कुशलवौ
(ग) उपसृत्य