English

मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत - एकः कश्चन महात्मा आसीत्‌। सः नित्यं (i) ______ लग्रः एकस्मिन्‌ आश्रमे निवसति स्म। भक्ताः तं महात्मानं मेलितुम्‌ आगच्छन्ति स्म। - Sanskrit (Core)

Advertisements
Advertisements

Question

मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत -

एकः कश्चन महात्मा आसीत्‌। सः नित्यं (i) ______ लग्रः एकस्मिन्‌ आश्रमे निवसति स्म। भक्ताः तं महात्मानं मेलितुम्‌ आगच्छन्ति स्म। ते स्वसमस्याः अपि यदा कदा (ii) ______ कथयन्ति स्म। महात्मा अपि यथासामर्थ्यं तासां समाधानं सूचयति स्म। एकदा एका वृद्धा महिला महात्मानम्‌ आगत्य (iii) ______ यत्‌ अयं मम पौत्रः। एषः गुडस्य अत्यधिकं सेवनं करोति। कृपया भवान्‌ एनं बोधयतु। महात्मा अवदत्‌ यत्‌ एकसप्ताहाद्‌ अनन्तरम्‌ आगच्छतु तदा (iv) ______। सा पुनः एकसप्ताहाद्‌ अनन्तरं महात्मानं (v) ______ बोधयितुं प्रार्थितवती। महात्मा (vi) ______ एकसप्ताहादनन्तरम्‌ आगन्तुम्‌ अकथयत्‌। महात्मनि श्रद्धावती सा पुनः उक्ते समये प्राप्तवती। अधुना महात्मा तं बालकम्‌ अबोधयत्‌ - वत्स! अत्यधिकं (vii) ______ योग्यं न भवति। केभ्यश्चन दिवसेभ्यः अनन्तरं सा वृद्धा महात्मानम्‌ असूचयत्‌ यत्‌ तस्याः (viii) ______ अधुना गुडभक्षणम्‌ अत्यजत्‌। पुनः सा महात्मानम्‌ अपृच्छत्‌ यत्‌ सः कथं वारद्वयं सप्ताहादनन्तरम्‌ आगच्छतु इति अकथयत्‌ यतः 'वत्स! अत्यधिकं गुडभक्षणं योग्यं न भवति।' इत्येतत्‌ वाक्यं तु पूर्वमपि वक्तुं (ix) ______? तदा महात्मा अकथयत्‌ यदा भवती प्रार्थितवती आसीत्‌ तदा अहमपि बहु गुडभक्षणं करोमि स्म, अतः अन्यं गुडत्यागाय वक्तुं मम अधिकारः न आसीत्‌। अहम्‌ अभ्यासेन प्रयत्नपूर्वकं गुडत्यागाय अकरवम्‌। अतः अहं ततः परमेव बालकं बोधितवान्‌ अपि च मम वचसः तस्मिन्‌ प्रभावोऽपि जातः। वृद्धा अन्ये भक्ताश्च श्रद्धया (x) ______ अभवन्‌।

                                                         मञ्जूषा

पौत्रः, शक्यते स्म, ईशस्तुत्याम्‌, प्रार्थितवती, पुनरेकदा, बोधयिष्यामि, नतमस्तकाः, महात्मानम्‌, पौत्रम्‌, गुडभक्षणम्‌।
Fill in the Blanks

Solution

एकः कश्चन महात्मा आसीत्‌। सः नित्यं (i) ईशस्तुत्याम्‌ लग्रः एकस्मिन्‌ आश्रमे निवसति स्म। भक्ताः तं महात्मानं मेलितुम्‌ आगच्छन्ति स्म। ते स्वसमस्याः अपि यदा कदा (ii) महात्मानम्‌ कथयन्ति स्म। महात्मा अपि यथासामर्थ्यं तासां समाधानं सूचयति स्म। एकदा एका वृद्धा महिला महात्मानम्‌ आगत्य (iii) प्रार्थितवती यत्‌ अयं मम पौत्रः। एषः गुडस्य अत्यधिकं सेवनं करोति। कृपया भवान्‌ एनं बोधयतु। महात्मा अवदत्‌ यत्‌ एकसप्ताहाद्‌ अनन्तरम्‌ आगच्छतु तदा (iv) बोधयिष्यामि। सा पुनः एकसप्ताहाद्‌ अनन्तरं महात्मानं (v) पौत्रम्‌ बोधयितुं प्रार्थितवती। महात्मा (vi) पुनरेकदा एकसप्ताहात्‌ अनन्तरम्‌ आगन्तुम्‌ अकथयत्‌। महात्मनि श्रद्धावती सा पुनः उक्ते समये प्राप्तवती। अधुना महात्मा तं बालकम्‌ अबोधयत्‌ - वत्स! अत्यधिकं (vii) गुडभक्षणम्‌ योग्यं न भवति। केभ्यश्चन दिवसेभ्यः अनन्तरं सा वृद्धा महात्मानम्‌ असूचयत्‌ यत्‌ तस्याः (viii) पौत्रः अधुना गुडभक्षणम्‌ अत्यजत्‌। पुनः सा महात्मानम्‌ अपृच्छत्‌ यत्‌ सः कथं वारद्वयं सप्ताहादनन्तरम्‌ आगच्छतु इति अकथयत्‌ यतः 'वत्स! अत्यधिकं गुडभक्षणं योग्यं न भवति।' इत्येतत्‌ वाक्यं तु पूर्वमपि वक्तुं (ix) शक्यते स्म? तदा महात्मा अकथयत्‌ यदा भवती प्रार्थितवती आसीत्‌ तदा अहमपि बहु गुडभक्षणं करोमि स्म, अतः अन्यस्मै गुडत्यागाय वक्तुं मम अधिकारः न आसीत्‌। अहम्‌ अभ्यासेन प्रयत्नपूर्वकं गुडत्यागाय अकरवम्‌। अतः अहं ततः परमेव बालकं बोधितवान्‌ अपि च मम वचसः तस्मिन्‌ प्रभावोऽपि जातः। वृद्धा अन्ये भक्ताश्च श्रद्धया (x) नतमस्तकाः अभवन्‌।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×