Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने शङ्करः स्नानार्थं पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: झटिति तस्य पादम् अगृह्णात्। तदा शङ्करः उच्चै: आक्रोशत्। “अम्ब! त्रायस्व। नक्रात् त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्। भयाकुला सा अपि रोदनम् आरभत। शङ्कर: मातरम् आर्ततया प्रार्थयत - “अम्ब, इतः परम् अहं न जीवामि। मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम्।” चेतसा अनिच्छन्ती अपि विवशा माता अवदत् - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्। दैववशात् शङ्कर: नक्राद् मुक्त:। स नदीतीरम् आगत्य मातु: चरणौ प्राणमत्। अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम् अवाबोधयत्। संन्यासी न केवलम् एकस्या: पत्र:। विशालं जगद् एव तस्य गृहम्। ‘मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि’ इति मात्रे प्रतिश्रुत्य स: गृहात् निरगच्छत्। |
(1) अवबोधनम्। (3 तः 2) (2)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
शङ्करः उच्चैः आक्रोशत् यतः ______।
(१) शङ्करः नक्रम् अपश्यत्।
(२) नक्रः तस्य पादम् अगृह्णात्।
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
भयाकुला माता रोदनम् आरभत।
(ग) पूर्णवाक्येन उत्तरं लिखत।
शङ्करः स्नानार्थं कुत्र गतः?
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गद्यांशात् २ पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(१) सर्वाणि | जगत् |
(२) विशालम् | दर्शनानि |
नदी |
(ग ) पूर्वपदं/उत्तरपदं लिखत।
(१) इदानीमेव = इदानीम् + ..........।
(२) तथैव = .......... + एव।
उत्तर
(1)
(क) शङ्करः उच्चैः आक्रोशत् यतः नक्रः तस्य पादम् अगृह्णात्।
(ख) सत्यम्
(ग) शङ्करः स्नानार्थं पूर्णानदीं गतः।
(2)
(क)
(१) आगत्य
(२) प्रतिश्रुत्य
(ख)
विशेषणम् | विशेष्यम् |
(१) सर्वाणि | दर्शनानि |
(२) विशालम् | जगत् |
(ग )
(१) इदानीमेव = इदानीम् + एव।
(२) तथैव = तथा + एव।