Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत्- मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत्-हे राजन्! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि। देव! रवि-शशि-तारा-मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीनः! राजा उवाच- भगवन्! भवन्मनोरथं पूरयित्वा आत्मानम् अनुगृहीतं कर्तुम् इच्छामि। आदिश्यताम्, किं करवाणि? विप्रः उवाच - यदि भवान् प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि येन मम लोकयात्रा निर्बाधा भवेत्। तत् श्रुत्वा राजा अचिन्तयत्, "लोके चक्षुर्दानं दुष्करमेव"। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- अर्थिनः केन सन्तुष्टाः आसन्?
- लोके किम् दुष्करम् अस्तिः
- चक्षुषा विप्रस्य का निर्बाधा भवेत्?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः किमवदत्?
- शक्रः किं परीक्षितुम् आगतः?
- विप्रः किमर्थं चक्षुषः दानम् इच्छति स्म?
इ. निर्देशानुसारम् उत्तरत- (केवलं प्रश्नद्वयम्) 2
- 'श्रुत्वा' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
- 'अर्थिनः' इत्यस्य क्रियापदं किं प्रयुक्तम्?
- 'ईदृशं दानम्' अत्र विशेष्यपदं किम्?
उत्तर
अ.
- धनलाभमात्रेण
- चक्षुर्दानम्
- लोकयात्रा
आ.
- शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः अवदत्- हे राजन्! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि। देव! रवि-शशि-तारा-मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीनः!
- शक्रः राज्ञः दानशीलतां परीक्षितुम् आगतः।
- विप्रः स्वलोकयात्रां निर्बाधं कर्तुं चक्षुषः दानम् इच्छति स्म।
अथवा
विप्रः रवि-शशि-तारा-मण्डलभूषितं जगत् द्रष्टुं चक्षुषः दानम् इच्छति स्म।
इ.
- आकर्ण्य
- भजन्ते
- दानम्