Advertisements
Advertisements
Question
मञ्जूषातः पदानि चित्वा कथां पूरयत-
वृद्ध:, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साटृहासम, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम् |
एकस्मिन् वने एक: ______ व्याघ्र: आसीत्। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। स: बहुप्रयासं ______ किन्तु जालात् मुक्त: नाभवत्। ______ तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्रं ______ स: तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां ______ इच्छामि। तच्छ्रुत्वा व्याघ्र: ______ अवदत्-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ______ अहं त्वां न हनिष्यामि। मूषक: ______ लघुदन्तै: तज्जालं ______ कृत्वा तं व्याघ्रं बहि: कृतवान्।
Solution
एकस्मिन् वने एक: वृद्ध: व्याघ्र: आसीत्। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्। स: बहुप्रयासं कृतवान् किन्तु जालात् मुक्त: नाभवत्। अकस्मात् तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा स: तम् अवदत्-अहो! भवान् जाले बद्ध:। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम् अवदत्-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम् कृत्वा तं व्याघ्रं बहि: कृतवान्।
APPEARS IN
RELATED QUESTIONS
व्याधस्य नाम किम् आसीत्?
चञ्चल: व्याघ्रं कुत्र दृष्टवान्?
निःसहायो व्याध: किमयाचत?
व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?
अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति
कः/का | कं/कां | |
अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। | ______ | ______ |
अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-
कः/का | कं/कां | |
यत्र कुत्रापि छेदनं कुर्वन्ति। | ______ | ______ |
अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-
कः/का | कं/कां | |
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। | ______ | ______ |
रेखांकित पदमाधृत्य प्रश्ननिर्माण–
चञ्चलः वृक्षम् उपगम्य अपृच्छत्।
रेखांकित पदमाधृत्य प्रश्ननिर्माण–
व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।
यथानिर्देशमुत्तरत-
सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?
उदाहरणानुसारं रिक्तस्थानानि पूरयत–
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा-मातृ (प्रथमा) | माता | मातरौ | मातरः |
स्वसृ (प्रथमा) | ______ | ______ | ______ |
उदाहरणानुसारं रिक्तस्थानानि पूरयत–
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा-स्वसृ (सप्तमी) | स्वसरि | स्वस्रो: | स्वसृषु |
मातृ (सप्तमी) | ______ | ______ | ______ |
उदाहरणानुसारं रिक्तस्थानानि पूरयत–
एकवचनम् | द्विवचनम् | बहुवचनम् | |
यथा-स्वसृ (षष्ठी) | स्वसुः | स्वस्रो: | स्वसणाम् |
मातृ (षष्ठी) | ______ | ______ | ______ |
धातुं प्रत्ययं च लिखत–
पदानि | = | धातुः | + | प्रत्ययः |
द्रष्टुम् | = | ______ | + | ______ |
धातुं प्रत्ययं च लिखत–
पदानि | = | धातुः | + | प्रत्ययः |
करणीय | = | ______ | + | ______ |
धातुं प्रत्ययं च लिखत–
पदानि | = | धातुः | + | प्रत्ययः |
खादितुम् | = | ______ | + | ______ |
धातुं प्रत्ययं च लिखत–
पदानि | = | धातुः | + | प्रत्ययः |
कृत्वा | = | ______ | + | ______ |