मराठी

अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-एकपदेन उत्तरत निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।

(i) एकपदेन उत्तरत-

(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्? 

(ख) अर्थकार्येन पीडितः सः केन प्राचलत्? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) निर्धनः जनः वित्तेन किं कृतवान्?

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।

(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?

(ग)‘परमर्थकार्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्? 

थोडक्यात उत्तर

उत्तर

(i) एकपदेन उत्तरत-

(क) वित्तम्।

(ख) पदातिः।

(ii) पूर्णवाक्येन उत्तरत - 

(क) निर्धनः जनः वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलः भूतवान्।

(iii) निर्देशानुसारम् उत्तरत 

(क) वित्तम्।

(ख) निर्धनः।

(ग) निर्धनजनाय ।

shaalaa.com
आदर्शप्रश्‍नपत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘घ’ (पठित-अवबोधनम् ) [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘घ’ (पठित-अवबोधनम् ) | Q 12. | पृष्ठ १०५

संबंधित प्रश्‍न

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

पूर्णवाक्येन उत्तरत 

शरीरस्वास्थ्यरक्षायै किं कर्तव्यम्?


भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमति प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तपदानां सहायतया पूरयत-

 

मञ्जूषा – अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः

छात्रावासतः
दिनाङ्कः _______

पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने  _______ अस्मि। आशासे भवान् अपि  _______ अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके  _______ शिक्षकै सह _______ अरुणाचल-प्रदेश गन्तुम् इच्छन्ति। यदि भवतः _______ यात्, अहमपि तैः सह गन्तुकामोऽस्मि।  _______ सहस्ररूप्यकाणि अपि आवश्यकानि।_______ स्वमन्तव्यं सूचयतु। यदि  _______ सम्मतिः अस्ति _______ अपि प्रेषयतु। _______ मम प्रणतिः निवेदनीया।

भवतः पुत्रः
अनिमेषः


‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत।

मञ्जूषा – वैश्विक-उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

छात्र विद्यालय जाता है।
A student goes to school.


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

शिक्षक पाठ पढ़ाते हैं।
Teacher teaches the lesson.


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

वे सब पढ़ने में कुशल बनें।
They all are become perfect in reading.


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

स एवं वह्निः + दहते शरीरम्।


कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत

बालकः ______ वादने उत्तिष्ठति। (6:00)


कोष्ठके प्रदत्त-समयवाचकान् अङ्कान् संस्कृतेन लिखत

सः ______ वादने विद्यालयात् गृहम् गच्छति। (1:45)


मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ परिश्रमं कुर्मः ______ सफलाः भवामः।


मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

जीवनम् ______ दुर्वहं जातमस्ति ।


मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, त

______ हरीतिमा ______ पर्यावरणं शुद्धम्।


रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

अहं परिश्रमं करोति।


अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत-

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? 

(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्? 

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?

(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? 

(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? 


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

अतिदाक्षिण्येन अलम्।


अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×