Commerce (English Medium)
Science (English Medium)
Arts (English Medium)
Commerce (Hindi Medium)
Science (Hindi Medium)
Arts (Hindi Medium)
Academic Year: 2024-2025
Date: मार्च 2025
Advertisements
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 18 प्रमुखाः प्रश्नाः सन्ति।
- अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्रपत्र पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम् ।
- उत्तरलेखनात् पूर्व प्रशनपत्रानुसारं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
प्रश्नपत्रस्वरूपम् -
अस्मिन् प्रश्नपत्रे चलारः खण्डाः सन्ति -
- खण्डः (क) अपठित-अवबोधनम् - 10 अङ्काः
- खण्डः (ख) रचनात्मककार्यम् - 15 अङ्काः
- खण्डः (ग) अनुप्रयुक्तव्याकरणम् - 20 अङ्काः
- खण्डः (घ) - (I) पठित-अवबोधनम् - 25 अङ्काः
(II) संस्कृत-साहित्येतिहास-परिचयः - 10 अङ्काः
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत -
मीरा कृष्णभक्तेषु अन्यतमा अस्ति। तस्याः जन्म १४९८ ई. तमे वर्षे कूडकी इति ग्रामे रत्नसिंहस्य गृहे अभवत्। अस्याः पतिः चित्तौड़गढ़स्य महाराजः भोजराजः आसीत्। शैशवात् एव मीरा कृष्णभक्तिलीना आसीत्। १५२१ इति वर्षे युद्धे व्रणितः तस्याः पतिः दिवङ्गतः। वैधव्यकाले तस्याः समयः विशेषतः कथाकीर्तनयोः पूजापाठयोः हरिचर्यायां च व्यतीतो भवति स्म। मीरायाः एतत्कृष्णप्रेम तस्याः देवराय विक्रमाय न रोचते स्म। सः तां नानाविधैः क्लेशैः अपीडयत्। एकदा सः पुष्पहारेण सह सर्पं प्रेषितवान्। अन्येद्युः तस्याः जीवनलीलां समापयितुं विषपूरितं चषकं प्रेषयत्। परमेश्वरानुकम्पया सर्पस्तां न अदशत्। विषम् अपि तस्याः कृते अमृतमिव अभवत्। तस्मात् तस्याः विश्वासः कृष्णभक्तौ दृढात्दृढतरोऽभवत्। मीरायाः भक्तिभावपूर्णानि गेयपदानि प्रतिप्रान्तं श्रद्धया गीयन्ते। इयं किम्वदन्ती प्रसिद्धा अस्ति यत् मीरा द्वारिकायां श्रीकृष्णमूर्तौ विलयङ्गता। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- मीरायाः पतिः कः आसीत्?
- का द्वारकायां श्रीकृष्णमूर्तौ विलयङ्गता?
- कस्मिन् ग्रामे मीरा जन्म अलभत?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- विक्रमः मीरां हन्तु किं किम् अकरोत्?
- वैधव्यकाले मीरायाः समयः कथं व्ययतीतो भवति स्म?
- मीरायाः विश्वासः कृष्णभक्तौ कथं दृढात्दृढतरोऽभवत्?
(इ) अनुच्छेदस्य (द्वित्रिशब्दात्मकं) समुचितं शीर्षकं लिखत। 1
(ई) यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्) 3
- 'एकदा सः पुष्पहारेण सह सर्पं प्रेषितवान्।' अत्र सः इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) मीरायै
(ख) विक्रमाय
(ग) चषकाय
(घ) रत्नसिंहाय - 'मीरायाः एतत्कृष्णप्रेम तस्याः देवराय विक्रमाय न रोचते स्म।' इत्यत्र 'प्रेम' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम्?
(क) मीरायाः
(ख) देवराय
(ग) न
(घ) रोचते स्म - 'सः तां नानाविधैः क्लेशैः अपीडयत्।' अत्र किं विशेषणपदं प्रयुक्तम्?
(क) सः
(ख) ताम्
(ग) नानाविधैः
(घ) क्लेशैः - 'अमृतम्' इत्यस्य पदस्य किं विलोमपदमत्र प्रयुक्तम्?
(क) चषकम्
(ख) विषम्
(ग) व्रणितः
(घ) व्यतीतः
Chapter:
भवान् स्वागतः। प्लास्टिक् इत्यस्य प्रयोगः पर्यावरण-नाशकः इति विषयम् अधिकृत्य मित्रम् सञ्चितं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत।
यूजी-01, संस्कृतिभवनम्
(i) ______
दिनाङ्क: 12 अप्रैल, 2024
प्रिय मित्र (ii) ______!
सस्नेहं (iii) ______
अत्र कुशलं तत्रास्तु। ह्यः एव मम विद्यालये 'त्यज प्लास्टिक् रक्ष पर्यावरणम्' इति विषये एका गोष्ठी अभवत्। अत्रैव मया प्रथमवारं (iv) ______ यत् प्लास्टिक् इत्यस्य परिणामाः दूरगामिनः घातकाश्च भवन्ति। अन्यानि सर्वाणि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) ______ तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं प्लास्टिक् इत्यस्य प्रयोगेण (vi) ______ कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात् आरभ्य रात्रौ निद्रापर्यन्तं प्लस्टिक् इत्यस्य विविधवस्तूनां प्रयोगं (vii) ______। किमधिकम् इयं लेखनी यया अहं लिखामि, अस्याः च पुनःपूरणी प्लास्टिक् निर्मिता। कल्पयामि यदि एवमेव प्लास्टिक् इत्यस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) ______ एव अस्माकं रक्षणम्। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणां प्रदास्यसि। गृहे (ix) ______ मम प्रणामाः निवेदनीयाः।
भवतः अभित्नमित्रम्
(x) ______
मञ्जूषा
कुर्मः, ज्ञातम्, प्लास्टिक्, पितृभ्याम्, सञ्चित, नवदिल्लीतः, पर्यावरणस्य, रक्षणे, नमस्ते, स्वागतः। |
Chapter:
मञ्जूषाप्रदत्त-पदसहायतया अधोलिखितां कथां पूरयत -
एकः कश्चन महात्मा आसीत्। सः नित्यं (i) ______ लग्रः एकस्मिन् आश्रमे निवसति स्म। भक्ताः तं महात्मानं मेलितुम् आगच्छन्ति स्म। ते स्वसमस्याः अपि यदा कदा (ii) ______ कथयन्ति स्म। महात्मा अपि यथासामर्थ्यं तासां समाधानं सूचयति स्म। एकदा एका वृद्धा महिला महात्मानम् आगत्य (iii) ______ यत् अयं मम पौत्रः। एषः गुडस्य अत्यधिकं सेवनं करोति। कृपया भवान् एनं बोधयतु। महात्मा अवदत् यत् एकसप्ताहाद् अनन्तरम् आगच्छतु तदा (iv) ______। सा पुनः एकसप्ताहाद् अनन्तरं महात्मानं (v) ______ बोधयितुं प्रार्थितवती। महात्मा (vi) ______ एकसप्ताहादनन्तरम् आगन्तुम् अकथयत्। महात्मनि श्रद्धावती सा पुनः उक्ते समये प्राप्तवती। अधुना महात्मा तं बालकम् अबोधयत् - वत्स! अत्यधिकं (vii) ______ योग्यं न भवति। केभ्यश्चन दिवसेभ्यः अनन्तरं सा वृद्धा महात्मानम् असूचयत् यत् तस्याः (viii) ______ अधुना गुडभक्षणम् अत्यजत्। पुनः सा महात्मानम् अपृच्छत् यत् सः कथं वारद्वयं सप्ताहादनन्तरम् आगच्छतु इति अकथयत् यतः 'वत्स! अत्यधिकं गुडभक्षणं योग्यं न भवति।' इत्येतत् वाक्यं तु पूर्वमपि वक्तुं (ix) ______? तदा महात्मा अकथयत् यदा भवती प्रार्थितवती आसीत् तदा अहमपि बहु गुडभक्षणं करोमि स्म, अतः अन्यं गुडत्यागाय वक्तुं मम अधिकारः न आसीत्। अहम् अभ्यासेन प्रयत्नपूर्वकं गुडत्यागाय अकरवम्। अतः अहं ततः परमेव बालकं बोधितवान् अपि च मम वचसः तस्मिन् प्रभावोऽपि जातः। वृद्धा अन्ये भक्ताश्च श्रद्धया (x) ______ अभवन्।
मञ्जूषा
पौत्रः, शक्यते स्म, ईशस्तुत्याम्, प्रार्थितवती, पुनरेकदा, बोधयिष्यामि, नतमस्तकाः, महात्मानम्, पौत्रम्, गुडभक्षणम्। |
Chapter:
अधोलिखितसंवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत-
परिधिः | आद्ये! त्वम् अद्य अल्पाहारार्थं किम् आनीतवती? |
आद्या | (i) ______ |
उदितः | अहम् ओदनं सूपञ्च आनीतवान्। परिधे! त्वं मध्यावकाशे भक्षणाय किम् आनयः? |
परिधिः | (ii) ______ |
मीशा | मम पार्श्वे आलुकस्य चिप्स शीतलपेयं चास्ति। (iii) ______? |
परिधिः | आम्, मह्यं शीतलपेयं रोचते। |
अभ्युदयः | (iv) ______ |
परिधिः | यद् वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम? |
अभ्युदयः | (v) ______। |
परिधिः | भवता सत्यं कथितम्। अग्रे वयं यत् स्वास्थ्याय हितकरं भवेत् तदेव आनेष्यामः। |
मञ्जूषा
|
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
वैभव जोर जोर से हँसता है।
Vaibhav laughs loudly.
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
तुम सब क्या पढ़ रहे हो?
What are you all reading?
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
बच्चे कहानी सुनेंगे।
Children will listen the story.
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
तुम दोनों जोर से मत बोलो।
Both of you don’t speak loudly.
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
किसान खेत में चले गए।
The farmers went to the field.
Chapter:
निम्नलिखितवाक्यम् संस्कृतेन अनुवादं कुरुत -
अब हम दोनों को सो जाना चाहिए।
Now both of us should sleep.
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
धर्मात् + न प्रमदितव्यम्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
किम् अत्रापि + अलोभः?
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
वैवस्वतो मनुर्नाम् मनीषिणां माननीयः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
प्रभूणाम् आज्ञाम् उत् + लङ्घ्य आयातीति आक्रुश्यते।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
सः चिरं तपस्तेपे।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
न + एकेन अपि समं गता वसुमती।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
कटु सत्यं खल्वेतत्।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
परमात्मा अनश्नन् एव अभिचाकशीति।
अन् अश्नन्
अन् श्नन्
न अश्नन्
अश्नस्य अभावः
Chapter:
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
परस्परमनुव्रतौ पतिपत्न्यौ त्रिवर्गं साधयतः।
पतिः च पत्नी च
पति च पत्नयौ च
पती च पत्न्यौ च
पत्या सह पत्नी
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
अपराधेन सह अपि मे वचः क्षन्तव्यम्।
अपराधसमम्
निरपराधम्
सापराधम्
अपराधस्य योग्यम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पाण्डित्येन सम्भृता मतिः यस्य सः मितप्रभाषी भवति।
पाण्डित्यसम्भृतमतिः
पण्डितमतिः
पाण्डित्येनसम्भृतमतिः
पण्डितः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
दीर्घप्रयासेन कृतं हि वस्तु।
दीर्घात् प्रयासेन
दीर्घेण प्रयासेन
दीर्घ प्रयासेन
दीर्घः प्रयासः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं समस्तपदं विग्रहंवाक्यं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
राजभवने रात्रौ प्राप्तपरिचयपत्राः एव प्रविशन्ति।
प्राप्तं परिचयपत्रं यैः ते
प्राप्तं परिचयपत्रं यस्मात् सः
प्राप्तं परिचयपत्रं येषां तेषाम्
प्राप्तं परिचयपत्रम् येन सः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
सत्यान्न प्रमदितव्यम्।
प्र + मद् + तव्यत्
प्र + मद् + शानच् न्
प्र + मद् + अनीयर्
प्र + मद् + क्त
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
भृकुटिः नियतीव व्यवस्थिता।
व्यवस्थित + तल्
व्यवस्थित + टाप्
वि + स्थिता
व्यवस्थित + ङीप्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
प्र + सू + क्तिन्
प्र + सू + तः
प्र + सू + क्त
प्र + सू + क्तवतु
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
दौवारिकः तु तम् नी + शतृ एव प्राचलत्।
नयत्
नयन्
नीतवान्
नीतिः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
गुण + इन् गुणं वेत्ति, न वेत्ति निर्बलः।
गुणः
गुणिनः
गुणी
गुणिनि
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
भोजः किमपि वत्सराजं कथ् + क्तवतु।
कथितवान्
कथितवती
कथयन्
कथितः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा समुचितं रूपं प्रदत्तविकल्पेभ्यः चिनुत -
मया कतिपय बिन्दवः एव प्राप्ताः।
प्र + आप् + क्तवतु
प्र + आप् + क्तिन्
प्र + आप् + तल्
प्र + आप् + क्त
Chapter:
तस्याः कस्मिन् ______ स्पृहा, येन अकार्यं करिष्यति।
फले
फलाय
फलात्
फलस्य
Chapter:
दिलीपस्य ______ सदृशः आगमः आसीत्।
प्रज्ञायाः
प्रज्ञाम्
प्रज्ञया
प्रज्ञा
Chapter:
राजा ______ राज्यं दत्वा तदुत्सङ्गे भोजं मुमोच।
मुञ्जम्
मुञ्जाय
मुञ्जस्य
मुञ्जेन
Chapter:
______ न प्रमदितव्यम्।
स्वाध्याये
स्वाध्यायस्य
स्वाध्यायेन
स्वाध्यायात्
Chapter:
अधोलिखितं गद्यांश पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत -
राज्ञः वहिप्रवेश-कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! मया भोजराजो रक्षित एवास्ति। पुनः बुद्धिसागरेण तस्य कर्णे किमपि कथितम्, यन्निशम्य वत्सराजः ततो निष्क्रान्तः। पुनः राज्ञो वह्विप्रवेशकाले कश्चन कापालिकः सभां समागतः। सभामागतं कापालिकं दण्डवत् प्रणम्य मुञ्जः प्रावोचत् - हे योगीन्द्र! मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति। अथ कापालिकस्तं प्रावोचत् - राजन्! मा भैषीः। शिवप्रसादेन सः जीवितो भविष्यति। तदा श्मशानभूमौ कापालिकस्य योजनानुसारं भोजः तत्र समानीतः। 'योगिना भोजो जीवितः इति कथा लोकेषु प्रसृता। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) भोजः कुत्र समानीतः?
(ख) राज्ञः वह्विप्रवेशकाले कः सभां समागतः?
(ग) भोजः कस्य प्रासादेन जीवितो भविष्यति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) वत्सराजो बुद्धिसागरं नत्वा किं प्राह?
(ख) लोकेषु का कथा प्रसृता?
(ग) मुञ्जः कापालिकं किं प्रार्थयत्?
इ. यथानिर्देशम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) 'प्राह' इति क्रियापदस्य कर्तृपदं किम्?
(ख) 'मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।' अत्र 'पुत्रस्य' इति पदस्य किं विशेषणं प्रयुक्तम्?
(ग) 'अग्रिः' इति पदस्य पर्यायपदं किमत्र प्रयुक्तम्?
Chapter:
अधोलिखितं पद्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत -
अल्पज्ञ एव पुरुषः प्रलपत्यजस्त्रं पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी। कांस्यं यथा हि कुरुतेऽतितरां निनादं तद्वत्सुवर्णमिह नैव करोति नादम्॥ |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) किं अतितरां निनादं करोति?
(ख) अल्पज्ञः पुरुषः कथं प्रलपति?
(ग) पाण्डित्यसम्भृतमतिः कीदृशः भवति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कः निरन्तरं प्रलापं करोति?
(ख) कांस्यवत् नादं कः न करोति?
(ग) अल्पज्ञ-पण्डितयोः मध्ये कः भेदः?
इ. यथानिर्देशम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) श्लोके 'निरन्तरम्' इत्यर्थे किं पदम्?
(ख) श्लोके 'प्रलपति' इति क्रियायाः कर्तृपदं किम्?
(ग) श्लोके 'निनादम्' इत्यस्य किं विशेषणपदं विद्यते?
Chapter:
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् यथानिर्देशं संस्कृतेन उत्तरत -
कुण्डला | जाने तेऽभिरुचिम् अध्ययने अध्यापने च। परं यथा लतेयं सहकारमवलम्बते तथैव नारी जीवनयात्रायां कमपि सहचरम् अपेक्षते यः तस्याः अवलम्बनं स्यात्। |
मदालसा | नास्ति मत्कृते आवश्यकता अवलम्बनस्य। स्वयं समर्था जीवनपथे चलितुमहम्। न कस्यापि सङ्केतैः नर्तितुं पारयामि। |
कुण्डला | नर्तिष्यसि तदा एकाकिनी एव। (विहस्य) यदि त्वं शीघ्रमेव पतिगृहं गमिष्यसि तदा एकाकिनी भविष्यामि। |
मदालसा | परम् एकः उपायः अपि चिन्तितः मया। |
कुण्डला | कः उपाय? |
मदालसा | सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यामि। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) मदालसा केभ्यः शिक्षणं प्रदास्यति?
(ख) कुण्डला मदालसायाः किं जानाति?
(ग) नारी कुत्र कमपि सहचरम् अपेक्षते?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कुण्डला विहस्य मदालसां किं कथयति?
(ख) मदालसा कस्मिन् स्वयं समर्था अस्ति?
(ग) केन माध्यमेन मदालसा बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यति?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) 'एकः' इति पदस्य विशेष्यं किम्?
(ख) 'गमिष्यसि' इति क्रियापदस्य कर्तृपदं किम्?
(ग) अत्र 'हसित्वा' इत्यर्थे किं पदं प्रयुक्तम्?
Chapter:
Advertisements
अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत -
न दुर्जनः सज्जनतामुपैति शठः सहस्रैरपि शिक्ष्यमाणः। चिरं निमग्नोऽपि सुधा-समुद्रे न मन्दरो मार्दवमभ्युपैति॥ |
भावार्थः - दुर्जनः शठः (i) ______ सज्जनैः अपि शिक्ष्यमाणः कदाचित् (ii) ______ न प्राप्रोति। यथा अमृतस्य समुद्रे चिरकालं यावत् (iii) ______ मन्दरः पर्वतः कोमलत्वं न प्राप्रोति। अतः शठस्य अवबोधनं तु सर्वथा व्यर्थमेव।
मञ्जूषा
सज्जनताम्, सहस्त्रैः, निमग्नः। |
Chapter:
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"नैकेनापि समं गता वसुमती नूनं त्वया यास्यति।”
मृत्योः अनन्तरम् एषा पृथिवी केनापि सह न गतवती निश्चितमेव त्वया सह गमिष्यति।
एषा पृथिवी अनेकैः सह गमिष्यति।
एषा वसुमती कदापि न गच्छति।
Chapter:
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।"
पुत्रेण मातुः गौरवं न वर्धते।
गुणवता पुत्रेण एव माता निर्भया भवति।
गुणहीनेन पुत्रेण माता निर्भया भवति।
Chapter:
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्।"
सुमित्रा अपि वनं गच्छति।
लक्ष्मणः रामस्य वनगमनं श्रुत्वा रोदिति।
शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।
Chapter:
अधोलिखित- श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्ति कुरुत -
वनगमननिवृत्तिः पार्थिवस्यैव तावन्मम पितृपरवत्ता बालभावः स एव। नवनृपतिविमर्शे नास्ति शङ्का प्रजानामथ च न परिभोगैर्वश्चिता भ्रातरो मे॥ |
अन्वयः - तावत् (i) ______ वनगमननिवृत्तिः एव मम पितृपरवत्ता बालभावः सः एव। (ii) ______ प्रजानाम् शङ्का न अस्ति। अथ च मे (iii) ______ परिभोगैः न वञ्चिताः।
मञ्जूषा
भ्रातरः, नवनृपतिविमर्शे, पार्थिवस्य। |
Chapter:
'क' स्तम्भस्य वाक्यांशानां 'ख' स्तम्भस्य वाक्यांशैः सह मेलनं कुरुत -
'क' स्तम्भः | 'ख' स्तम्भः | ||
(i) | ज्ञाने मौनं क्षमा शक्तौ | (क) | शौचमद्रोहो नातिमानिता। |
(ii) | तेजः क्षमा धृतिः | (ख) | प्रजायै गृहमेधिनाम् |
(iii) | आह्वादितं कुलं सर्वम् | (ग) | त्यागे श्लाघाविपर्ययः |
(iv) | यशसे विजिगीषूणाम् | (घ) | यथा चन्द्रेण शर्वरी |
Chapter:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं चित्वा लिखत -
भूत्यै न प्रमदितव्यम्।
वार्तालापः
ऐश्वर्याय
श्रीरामः
लक्ष्मणेन
Chapter:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं चित्वा लिखत -
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्।
वार्तालापः
ऐश्वर्याय
श्रीरामः
लक्ष्मणेन
Chapter:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं चित्वा लिखत -
ततस्तयोरेवम् अभूत् आलापः।
वार्तालापः
ऐश्वर्याय
श्रीरामः
लक्ष्मणेन
Chapter:
अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं चित्वा लिखत -
सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः।
वार्तालापः
ऐश्वर्याय
श्रीरामः
लक्ष्मणेन
Chapter:
'कार्याकार्यव्यवस्थितिः' इत्यस्य पाठस्य सन्दर्भग्रन्थः कः?
Chapter:
'तैत्तिरीयोपनिषद्' इति ग्रन्थात् कः पाठः सङ्कलितः?
Chapter:
'प्रजानुरञ्जको नृपः' इत्यस्य पाठस्य कर्त्ता कः?
Chapter:
______ सर्गेषु निबद्धं भवति।
पदलालित्यम्
अर्थगौरवम्
आख्यायिका
महाकाव्यम्
Chapter:
भारवेः ______ प्रसिद्धं वर्तते।
पदलालित्यम्
अर्थगौरवम्
आख्यायिका
महाकाव्यम्
Chapter:
दण्डिनः ______ अतिगौरवं वहति।
पदलालित्यम्
अर्थगौरवम्
आख्यायिका
महाकाव्यम्
Chapter:
ऐतिहासिकघटनाधारितं गद्यकाव्यम् ______ इति कथ्यते।
पदलालित्यम्
अर्थगौरवम्
आख्यायिका
महाकाव्यम्
Chapter:
समुचितं मेलयाम।
भागः - क | भागः - ख | ||
(i) | उरुभङ्गनाटकम् | (क) | शूद्रकः |
(ii) | मृच्छकटिकम् | (ख) | सप्ताङ्कात्मकं नाटकम् |
(iii) | मुद्राराक्षसम् | (ग) | भवभूतेः कृतिः |
(iv) | मालतीमाधवम् | (घ) | भासः |
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 12 Sanskrit (Core) with solutions 2024 - 2025
Previous year Question paper for CBSE Class 12 -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Core), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 12.
How CBSE Class 12 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Core) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.