मराठी

मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति? - Sanskrit

Advertisements
Advertisements

प्रश्न

 मतिवैभवशालिन: दुष्कराणि कार्याणि कथं साधयन्ति?

एका वाक्यात उत्तर

उत्तर

मतिवैभवशालिनः दुष्कराणि कार्याणि नीति युक्तिं समालम्ब्य लीलया एव साधयन्ति।

shaalaa.com
विचित्र: साक्षी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: विचित्रः साक्षी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 8 विचित्रः साक्षी
अभ्यासः | Q 2. (च) | पृष्ठ ७१

संबंधित प्रश्‍न

कीदृशे प्रदेशे पदयात्रा न सुखावहा?


 अतिथि: केन प्रबुद्धः?


 कृशकायः कः आसीत्?


 कं निकषा मृतशरीरम् आसीत्?


निर्धनः जनः कथं वित्तम् उपार्जितवान्?


जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

न्यायाधीशः बंकिमचन्द्रः आसीत्।


यथानिर्देशमुत्तरत-

‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे कि पदं प्रयुक्तम्?


यथानिर्देशमुत्तरत-

'ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?


संन्धि/सन्धिविच्छेदं च कुरुत-

भोजन + अन्ते – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

गृह + अभ्यन्तरे – ______


संन्धि/सन्धिविच्छेदं च कुरुत-

लीलयैव – ______ + ______


संन्धि/सन्धिविच्छेदं च कुरुत-

यदुक्तम् – ______ + ______


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।


अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

कश्चन चौर: गृहाभ्यन्तरं प्रविष्टः।


अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

आरक्षी सुपष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्‌। यथाकथञ्चिद्‌ उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम्‌ अघटत्‌ स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌ - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद्‌ वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद्‌ वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।'

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)       1

(क) सुपष्टदेह: क: आसीत्‌?

(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम्‌ आसीत्‌?

(ग) कृशकायः क: आसीत्‌?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम्‌ प्रोच्य उच्चै: अहसत्‌?

(ख) अभियुक्तः कया क्रन्दति स्म?

(ग) उभौ शवम्‌ आनीय कुत्र स्थापितवन्तौ?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?


अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।

  1. निर्धनस्य पुत्र: छात्रावासे निवसन्‌ अध्ययने संलग्नो जात:।
  2. तेन वित्तेन स्वपुत्रं एकस्मिन्‌ महाविद्यालये प्रवेशं कारितवान्।
  3. कश्चन निर्धन: जन: परिश्रमेण किञ्चित्‌ धनम्‌ अर्जितवान्‌।
  4. पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
  5. पुत्र: छात्रावासे रुग्ण: जात:।
  6. सायङ्कालो जात: परं गन्तव्यात्‌ स: पत्र: दूरे आसीत्‌।
  7. निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्‌।
  8. स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम्‌ उपागतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×