Commerce (English Medium)
Science (English Medium)
Arts (English Medium)
Commerce (Hindi Medium)
Science (Hindi Medium)
Arts (Hindi Medium)
Academic Year: 2024-2025
Date: मार्च 2025
Advertisements
सामान्यनिर्देशाः
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 10 पृष्ठानि मुद्रितानि सन्ति।
- कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रमुखाः प्रश्नाः सन्ति।
- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
- अस्य प्रश्नपत्रस्य पठनाय 15 निमेषाः निर्धारिताः सन्ति। अस्मिन् अवधौ केवलं प्रश्रपत्र पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम् ।
प्रश्नपत्रस्वरूपम् -
- खण्डः (क) अपठित-अवबोधनम् - 10 अङ्काः
- खण्डः (ख) रचनात्मक-कार्यम् - 10 अङ्काः
- खण्डः (ग) अनुप्रयुक्त-व्याकरणम् - 15 अङ्काः
- खण्डः (घ) - (i) पठित-अवबोधनम् - 25 अङ्काः
(ii) संस्कृतसाहित्येतिहासपरिचयः - 10 अङ्काः - खण्डः (ङ) छन्दोऽलङ्कारपरिचयः - 10 अङ्काः
निर्देशाः -
- अस्मिन् प्रश्नपत्रे पञ्च खण्डाः सन्ति।
- प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
- प्रश्नसङ्ख्या प्रश्रपत्रानुसारम् अवश्यमेव लेखनीया ।
- सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।
अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत -
पुरा गुर्जरप्रान्ते एकस्मिन् स्थाने सुविख्यातमेकं गुरुकुलम् आसीत्। तत्र द्विशताधिकाश्छात्राः विविधविद्यापारङ्गतेभ्यः गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तत्र नगरस्थिता एका संस्था तेषां भोजनादिव्यवस्थाम् अकरोत्। एकदा संस्थाधिकारिणः गुरुकुलवासिनां चिकित्सायै एकं वैद्यं तत्र प्रेषितवन्तः। वैद्यः मासत्रयपर्यन्तम् आश्रमेऽवसत्। किन्तु कश्चिदपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत्। वैद्यराजः प्रधानाचार्यस्य समीपं गत्वा तमपृच्छत्-किम् अत्र कोऽपि रोगी न भवति? प्रधानाचार्यः विहस्य अवदत्- वैद्यराज! अस्य एकं रहस्यम् अस्ति। अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम् अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतदेव एतेषां स्वास्थ्यस्य रहस्यम् अस्ति। भवान् तु जानाति एव यत् स्वस्थाः नराः औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत् - 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः'। अतोऽहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः। |
(अ) एकपदेन उत्तरत - (केवलं प्र्श्नद्वयम्) 2
(क) कः अवदत् 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः'?
(ख) संस्थाधिकारिणः केषां चिकित्सायै वैद्यं प्रेषितवन्तः?
(ग) गुर्जरप्रान्ते कीदृशं गुरुकुलम् आसीत्?
(आ) पूर्णवाक्येन उत्तरत- (केवलं प्र्श्नद्वयम्) 4
(क) गुरुकुलवासिनां स्वास्थ्यस्य किं रहस्यमस्ति?
(ख) छात्राः गुरुकुले किं कुर्वन्ति स्म?
(ग) कीदृशाः नराः औषधं सेवन्ते?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत- 1
(ई) निर्देशानुसारम् उचितम् उत्तरं चित्वा लिखत- (केवलं प्र्श्नत्रयम्) 3
(क) 'भवान् तु जानाति एव यत् स्वस्थाः नराः औषधं न सेवन्ते' अत्र 'जानाति' इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्?
- स्वस्थाः
- भवान्
- नराः
- औषधम्
(ख) 'रुग्णाः' इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- औषधम्
- चिकित्सायै
- स्वास्थ्यस्य
- स्वस्थाः
(ग) 'नगरस्थिता एका संस्था तेषां भोजनादिव्यवस्थाम् अकरोत्' वाक्येऽस्मिन् विशेष्यपदं कि प्रयुक्तम्?
- संस्था
- एका
- नगरस्थिता
- भोजनादिव्यवस्थाम्
(घ) 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः' अत्र क्रियापदं किं प्रयुक्तम्?
- अत्र
- अस्ति
- उपयोगः
- कश्चित्
Chapter:
भवती वरेण्या बैंगलूरुनगरे एकस्मिन् छात्रावासे वसति। मात्रा लिखितपत्रेण भवती ज्ञातवती यद् भवदनुजः ऋतांशः चलभाषियन्त्रस्य अतिप्रयोगं करोति। अस्य यन्त्रस्य अतिप्रयोगः सर्वथा हानिकरः एव इति तं बोधयितुं मञ्जूषायां प्रदत्तसङ्केतानां सहायतया अनुजं प्रति पत्रमेकं लिखतु।
मञ्जूषा-
शुभाशिषः, तत्रापि, स्यात्, प्रिय अनुज, चलभाषियन्त्रेण, अस्य अतिप्रयोगः, अध्ययनसमयमपि, उचितम्, सर्वविधं कुशलम्, अद्यैव, विनश्यति, स्वास्थ्याय, मन्ये, मात्रा लिखितम्, विवेकेन, विश्वासः, इतः परम्, हानिकरः, मातापितृभ्याम्, मम, निवेदयतु, सर्वदा, प्रणामान्, स्नेहम्, बैंगलूरूतः |
Chapter:
भवान् उद्रीथः द्वादशकक्षायाः छात्रः अस्ति। स्वविद्यालये संस्कृतसम्भाषण-शिविरम्आयोजयितुम् इच्छति। एतदर्थम् अनुमतिं प्राप्तुं प्रधानाचार्यं प्रति मञ्जूषायां प्रदत्तसङ्केतानां सहायतया पत्रमेकं लिखत।
मञ्जूषा-
सम्मान्यः, महोदयः, सविनयम्, सर्वे, संस्कृतच्छात्राः, विद्यालयस्य, संस्कृतसम्भाषण-शिविरस्य, भवेत्, आयोजनम्, छात्रेषु, उत्साहः, अभ्यासः, संस्कृतसम्भाषणं प्रति, संस्कृतमयम्, वातावरणम्, सप्ताहपर्यन्तम्, परस्परम्, व्यवहरिष्यन्ति, संस्कृतेनैव, सरलतया, समर्थाः, अनुगृहीताः, सधन्यवादम्। |
Chapter:
प्रदत्ततथ्यानां सहायतया अधोलिखितं विषयम् अधिकृत्य संस्कृतेन अनुच्छेदं लिखत -
विषयः - जलमेव जीवनम्।
- जीवनाय जलस्य उपयोगित्वम्
- वर्तमानकाले संसारे जलस्य स्थितिः
- समस्या कारणानि च
- जलरक्षणस्य उपायाः उपसंहारश्च
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
भारत के वीर सैनिक देशरक्षा के लिए सदा तत्पर रहते हैं।
The brave soldiers of Bharat are always ready to defend the country.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
बाल्यकाल में सभी बच्चों को विद्यालय जाकर अध्ययन करना चाहिए।
All children should go to school and study during childhood.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
सब छात्रों ने कठोर परिश्रम करके सफलता प्राप्त की थी।
All the students had achieved success by working hard.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
शिष्य आचार्य से व्याकरणशास्त्र पढ़ेंगे।
The disciples will study grammar from Acharya.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
तुम सब घर के चारों ओर पेड़ लगाओ।
You all plant trees around the house.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
वह घोड़ा एक पैर से लँगड़ा था।
That horse was lame in one leg.
Chapter:
हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।
आप किस विद्यालय में पढ़ते हैं?
Which school do you study in?
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
अन्धन्तमः प्रविशन्ति येऽविद्याम् उपासते।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
रघोः + उदारामपि गां निशम्य।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
कवचिनो दण्डिनो निषङ्गिणश्च रक्षितार:।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कृत्वा लिखत।
कुमार! कृतम् + कृतमश्वेन।
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अर्ह् + शतृ
अर्ह् + त्त्क
अर्ह् + त्त्कवतु
अर्ह् + तृच्
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
विरलाः हि तेषाम् उप + दिश् + तृच्।
उपदेष्टा
उपदेष्ट्ट
उपदेष्टारः
उपदेष्टारौ
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
कर्मसङ्ग + अण्
कर्मसङ्ग + शानच्
कर्मसङ्ग + ठक्
कर्मसङ्ग + णिनि
Chapter:
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
अप्रबोधा घोर + टाप् च राज्यसुखसन्निपातनिद्रा।
घोरः
घोरा
घोरम्
घोरटा
Chapter:
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
जगदेकनाथः रघुः कौत्सं ______ अकथयत्।
श्वः
तूष्णीम्
सहसा
भूयः
Chapter:
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
______ क्रियमाणं कार्यम् अदैव समापयेत्।
श्वः
तूष्णीम्
सहसा
भूयः
Chapter:
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
पुत्तलिकायाः वचनं श्रुत्वा राजा ______ अभवत्।
श्वः
तूष्णीम्
सहसा
भूयः
Chapter:
प्रदतैः समुचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -
अथ परितो पर्वतश्रेणीव मेघमाला ______ प्रादुरभूत्।
श्वः
तूष्णीम्
सहसा
भूयः
Chapter:
Advertisements
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
अहं ______ पूर्वं तव दर्शनम् इच्छामि। (गमन)
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
अलम् ______। (चिन्ता)
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
अश्वारोही ______ न विरमति। (स्वकार्य)
Chapter:
कोष्ठके प्रदत्तशब्दे समुचितां विभक्तिं प्रयुज्य वाक्यम् रिक्तस्थानानि पूरयत।
धनं ______ विना सफलं न भवति। (दान)
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
छात्राणां कृते योगशिक्षा अतीव उपयोगी अस्ति।
योगेन शिक्षा
योगस्य शिक्षा
योगाय शिक्षा
योगे शिक्षा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
वयं योगस्य विषये विस्तरेण सहितम् ज्ञातुमिच्छामः।
सविस्तरम्
सविस्तरेण
सविस्तरेणसह
विस्तरसहितम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
महोत्साहः अश्वारोही तोरणदुर्गं प्रयाति।
महान् उत्साहः
महत् उत्साहः यस्य सः
महान् उत्साहं यस्य सः
महान् उत्साहः यस्य सः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समुचितं विग्रहं समस्तपदं वा चित्वा लिखत।
बुद्धियुक्तो जहातीह उभे सुकृतञ्च दुष्कृतञ्च।
सुकृतदुष्कृतौ
सुकृतदुष्कृतम्
सुकृतदुष्कृते
सुकृतम् दुष्कृतम्
Chapter:
अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् संस्कृतेन उत्तरत -
इत्येवं विचार्य सर्वस्वदक्षिणं यज्ञ कर्तुमुपक्रान्तवान्। ततः शिल्पिभिरतीव मनोहरो मण्डपः कारितः। सर्वापि यज्ञसामग्री समह्रता। देवमुनिगन्धर्वयक्षसिद्धादयश्च समाहूताः। तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद्राह्मणः समुद्रतीरे प्रेषितः। सोऽपि समुद्रतीरं गत्वा गन्धपुष्पादिषोडशोपचारं विधायाब्रवीत् "भोः समुद्र! विक्रमार्को राजा यज्ञं करोति। तेन प्रेषितोऽहं त्वामाह्वातुं समागतः।" इति जलमध्ये पुष्पाञ्जलिं दत्वा क्षणं स्थितः। कोऽपि तस्य प्रत्युत्तरं न ददौ। तत उज्जयिनीं यावत्प्रत्यागच्छति तावद्देदीप्यमानशरीरः समुद्रो ब्राह्मणरूपी सन् तमागत्यावदत्। "भो ब्राह्मण, विक्रमेणास्मानाह्वातुं प्रेषितस्त्वं, तर्हि तेन यास्माकं सम्भावना कृता सा प्राप्तैव। एतदेव सुह्रदो लक्षणं यत्समये दानमानादि क्रियते।" |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- अतीव मनोहरः मण्डपः कैः कारितः?
- ब्राह्मणः कुत्र पुष्पाञ्जलिं दत्वा क्षणं स्थितः?
- राजा कीदृशं यज्ञं कर्तुमुपक्रान्तवान्?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- ब्राह्मणः यावदुज्जयिनीं प्रत्यागच्छति तावत् किमभवत्?
- राज्ञा यज्ञार्थं के समाहूताः?
- ब्राह्मणः गन्धपुष्पादिषोडशोपचारं विधाय किमब्रवीत्?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'अवदत्' इति क्रियापदस्य कर्तृपदं गद्यांशे किमस्ति?
- 'आगत्य' इत्यस्य विलोमपदं गद्यांशे किं प्रयुक्तम्?
- 'सर्वस्वदक्षिणं यज्ञं कर्तुमुपक्रान्तवान्' वाक्येऽस्मिन् विशेषणपदं किं प्रयुक्तम्?
Chapter:
अधोलिखितं पद्यं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद् गुरुदक्षिणायै। स मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत् पुरस्तात्।। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- महर्षिः केन विज्ञापितः अभवत्?
- महर्षिः अस्खतोपचारां काम् अचिनोत्?
- कौत्सेन का समाप्ता?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- कौत्सेन गुरुदक्षिणायै कः निवेदितः?
- महर्षिः कीदृशीं भक्तिम् अगणयत्?
- समाप्तविद्यः कौत्सः किम् अकरोत्?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- श्लोके 'सः' इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्?
- 'अस्खलितोपचाराम्' इति विशेषणस्य विशेष्यपदं किम्?
- 'निवेदितः' इति अर्थे श्लोके किं पदं प्रयुक्तम्?
Chapter:
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् संस्कृतेन उत्तरत -
कौशल्या | जात! अस्ति ते माता? स्मरसि वा तातम्? |
लवः | नहि। |
कौशल्या | ततः कस्य त्वम्? |
लवः | भगवतः सुगृहीतनामधेयस्य वाल्मीकेः। |
कौशल्या | अयि जात! कथयितव्यं कथय। |
लवः | एतावदेव जानामि। |
(प्रविश्य सम्भ्रान्ताः) | |
बटवः | कुमार! कुमार! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः। |
लवः | 'अश्वोऽश्व' इति नाम पशुसमाम्नाये साङ्गामिके च पठ्यते, तद् ब्रूत - कीदृशः? |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- कौशल्या लवं किं कथयितुम् आदिशति?
- 'स्मरसि तातम्' इति का पृच्छति?
- बटुभिः कः प्रत्यक्षीकृतः?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'ततः कस्य त्वम्' इति प्रश्नस्य उत्तरं किम्?
- 'अश्वोऽश्वः' इति कुत्र पठ्यते?
- बटुभिः किम् अनुश्रूयते?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'पुत्र' इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?
- 'अश्वोऽश्व इति कोऽपि भूतविशेषः' अत्र विशेष्यपदं किं प्रयुक्तम्?
- 'अयि जात! कथयितव्यं कथय' वाक्येऽस्मिन् कर्तृपदं किम्?
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अहम् आश्रमस्य सर्वविधम् आयव्ययाकलनं प्रेषितवती।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मेघमालाभिः द्विगुणितो महान्धकारः।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भवन्तः यमनियमेत्यादीनां प्रत्यक्षमनुभवं विधास्यन्ति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विषयेषु अत्यासङ्गः पुरुषं नाशयति।
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषितः।
Chapter:
अधोलिखितस्य श्लोकस्य अन्वयं लिखत।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ |
Chapter:
अधोलिखितस्य श्लोकस्य भावार्थ संस्कृतभाषया लिखत।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥ |
Chapter:
'कार्यं वा साधयेयम्, देहं वा पातयेयम्' इति पाठम् आधृत्य शिववीरचरस्य चरित्रचित्रणं सङ्केपेण संस्कृतभाषया लिखत।
Chapter:
'सौन्दरनन्द' इति महाकाव्यस्य रचयिता कः आसीत्?
कालिदासः
माघः
अश्वघोषः
भारविः
Chapter:
महाकविभट्टिविरचिते 'भट्टिकाव्ये' कति सर्गाः सन्ति?
द्वाविंशतिः
द्वात्रिंशत्
विंशतिः
एकविंशतिः
Chapter:
'कर्णाटराजतरङ्गिणी'? इति महाकाव्यं कः रचितवान्?
नयचन्दसूरि
काशीनाथमिश्रः
अरिसिंहः
कल्हणः
Chapter:
'परिक्रिया' इति ऐतिहासिककाव्यभेदे अधोलिखितेषु किं काव्यम् अस्ति?
राजतरङ्गिणी
महाभारतम्
रघुवंशम्
रामायणम्
Chapter:
Advertisements
'वासवदत्ता' इति कथाग्रन्थस्य रचयिता कोऽस्ति?
बाणभट्टः
दण्डी
भासः
सुबन्धुः
Chapter:
कादम्बर्यानुसारं शुकनासः कम् उपदिष्टवान्?
तारापीडम्
वैशम्पायनम्
चन्द्रापीडम्
पुण्डरीकम्
Chapter:
'______ कवीनां निकषं वदन्ति'। उचितविकल्पं चित्वा रिक्तस्थानं पूरयत।
गद्यम्
पद्यम्
नाटकम्
चम्पूः
Chapter:
'आनन्दवृन्दावनचम्पू' इति कस्य रचनास्ति?
वेङ्कटाध्वरि
कविकर्णपूरः
केशवभट्टः
नीलकण्ठदीक्षितः
Chapter:
'अभिज्ञानशाकुन्तलस्य' कतमोऽङ्कः सर्वश्रेष्ठः मन्यते?
द्वितीयः
प्रथमः
चतुर्थः
तृतीयः
Chapter:
'चारुदत्तः' इति कस्य नाटकस्य नायकः अस्ति?
वेणीसंहारस्य
मालविकाग्निमित्रस्य
मुद्राराक्षसस्य
मृच्छकटिकस्य
Chapter:
विशाखदत्तः कं नाटकं प्रणीतवान्।
दूतवाक्यम्
मुद्राराक्षसम्
शारिपुत्रप्रकरणम्
विक्रमोर्वशीयम्
Chapter:
'प्रबोधचन्द्रोदयम्' इति नाटकं कः अरचयत्?
यशःपालः
जयन्तभट्टः
कृष्णमिश्रः
वेदान्तदेशिकः
Chapter:
'रसैरुद्रैश्छिन्ना ______ शिखरिणी।' इति लक्षणं पूरयत।
Chapter:
अधोलिखितश्लोकपङ्किषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत।
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
Chapter:
अधोलिखितश्लोकपङ्किषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत।
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
Chapter:
अधोलिखितश्लोकपङ्किषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत।
महिम्नामेतस्मिन् विनयशिशिरो मौग्ध्यमसृणो।
Chapter:
श्लिष्टैः पदैरनेकार्थ- ______। इति श्लेषलक्षणं पूरयत।
Chapter:
अधोलिखितासु श्लोकपङ्किषु प्रयुक्तालङ्कारस्य नाम लिखत।
अनलङ्कतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम्।
Chapter:
अधोलिखितासु श्लोकपङ्किषु प्रयुक्तालङ्कारस्य नाम लिखत।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्।
Chapter:
अधोलिखितासु श्लोकपङ्किषु प्रयुक्तालङ्कारस्य नाम लिखत।
वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 12 Sanskrit (Elective) with solutions 2024 - 2025
Previous year Question paper for CBSE Class 12 -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Elective), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 12.
How CBSE Class 12 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Elective) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.